Skip to main content

संस्कृत के 100 महत्वपूर्ण प्रश्न


संस्कृत के 100 महत्वपूर्ण प्रश्न

प्रश्न (१.) – “अष्टाध्यायी” इत्यस्य ग्रन्थस्य रचनाकारः कः ?
उत्तर– पाणिनिः

प्रश्न (२.) – अष्टाध्याय्यां कति अध्यायाः ?
उत्तर– अष्टौ

प्रश्न (३.) – अष्टाध्याय्यां कति पादाः ?
उत्तर– ३२

प्रश्न (४.) – सिद्धान्तकौमुदी इत्यस्य रचयिता क: ?
उत्तर– भट्टोजिदीक्षित:।

प्रश्न (५.) – बालमनोरमाटीकाया: कर्ता क: ?
उत्तर– वासुदेवदीक्षित:।

प्रश्न (६.) – तत्त्वबोधिनीव्याख्याया: कर्ता क: ?
उत्तर– श्रीज्ञानेन्द्रसरस्वती ।

प्रश्न (७.) – प्रक्रियाकौमुदी इत्यस्य ग्रन्थस्य कर्त्ता कः ?
उत्तर– रामचन्द्रः

प्रश्न (८.) – अष्टाध्याय्यां प्रत्याहारसूत्राणि कति ?
उत्तर– चतुर्दश।

प्रश्न (९.) – प्रत्याहारसूत्रेषु को‌ऽयं वर्ण: द्विरनुबध्यते ?
उत्तर– णकार:।

प्रश्न (१०.) – प्रत्याहारसूत्रेषु को‌ऽयं वर्ण: द्विरुपदिष्ट: ?

उत्तर– हकार:।

प्रश्न (११.) – किमर्थमुपदिष्टानि प्रत्याहारसूत्राणि ?
उत्तर– अणादिप्रत्याहारसंज्ञार्थानि।

प्रश्न (१२.) – वेदपुरुषस्य मुखात्मकं वेदाङ्गं किम् ?
उत्तर– व्याकरणम् ।

प्रश्न (१३.) – हकारादिषु अकार: किमर्थम् ?
उत्तर– उच्चारणार्थ:।

प्रश्न (१४.) – सूत्राणां प्रकाराः कति ? के ते ?
उत्तर– सप्त– संज्ञा,परिभाषा, विधि:, नियम:, निषेधः, अतिदेश:,अधिकार:।

प्रश्न (१५.) – व्याकरणस्य कति सम्प्रदायाः सन्ति ?
उत्तर– अष्टौ ।

प्रश्न (१६.) – किं नाम संज्ञासूत्रम् ?
उत्तर– संज्ञासंज्ञिसम्बन्धबोधकं सूत्रम् ।

प्रश्न (१७.) – किं नाम परिभाषात्वम् ?
उत्तर– अनियमे नियमकारिणीत्वम् ।

प्रश्न (१८) – किं नाम विधिसूत्रम् ?
उत्तर– आगम-आदेशादिविधायकं सूत्रम् ।

प्रश्न (१९.) – सम्प्रति व्याकरणस्य प्रतिनिधिग्रन्थः कः ?
उत्तर– शब्दानुशासनम् ।

प्रश्न (२०.) – को नाम नियम: ?
उत्तर– सिद्धे सति आरभ्यमाण: विधि: नियम: ।

प्रश्न (२१.) – को नाम अतिदेश: ?
उत्तर– अविद्यमानस्य धर्मस्य विद्यमानत्वकल्पनम् ।

प्रश्न (२२.) – किं नाम अधिकारत्वम् ?
उत्तर– स्वदेशेफलशून्यत्वे सति उत्तरत्र फलजनकत्वम् ।

प्रश्न (२३.) – अष्टाध्याय्याः प्रथमसूत्रं किम् ?
उत्तर– वृद्धिरादैच् ।

प्रश्न (२४.) – अन्त्यहलाम् इत्संज्ञाविधायकं सूत्रं किम् ?
उत्तर– हलन्त्यम् (१.३.३)

प्रश्न (२५.) – अनुनासिकाचाम् इत्संज्ञाविधायकं सूत्रं किम् ?
उत्तर– उपदेशेऽजनुनासिक इत् (१.३.२)

प्रश्न (२६.) – आदिरन्त्येन सहेता (१.१.७१) इति सूत्रेण किं विधीयते ?
उत्तर– प्रत्याहारसंज्ञा ।

प्रश्न (२७.) – प्रत्याहारेषु इतामग्रहणे किं प्रमानम् ?
उत्तर– अनुनासिक इत्यादिनिर्देश:।

प्रश्न (२८.) – कस्य ह्रस्व: , दीर्घ:, प्लुत: इति संज्ञा ?
उत्तर– एकमात्राकालिकस्य अच: ह्रस्व: इति, द्विमात्राकालिकस्याच: दीर्घ: इति, त्रिमात्राकालिकस्य अच: प्लुत: इति संज्ञा।

प्रश्न (२९.) – अनुनासिकसंज्ञासूत्रम् किम् ?
उत्तर– मुखनासिकावचनोऽनुनासिक:(१.१.८)।

प्रश्न (३०.) – अकारस्य कति भेदा: ?
उत्तर– अष्टादश ।

प्रश्न (३१.) – लृवर्णस्य क: भेद: नास्ति ?
उत्तर– दीर्घ: ।

प्रश्न (३२.) – एचां क: भेद: नास्ति ?
उत्तर– ह्रस्व: ।

प्रश्न (३३.) – सवर्णसंज्ञासूत्रं किम् ?
उत्तर– तुल्यास्यप्रयत्नं सवर्णम् (१.१.९) ।

प्रश्न (३४.) – कण्ठस्थानं केषां वर्णानाम् ?

उत्तर– अकुहविसर्जनीयानाम् ।

प्रश्न (३५) – तालुस्थाने के के वर्णा: निष्पद्यन्ते ?
उत्तर– इचुयशा:। (इ,ई,च्,छ्,ज्,झ्,ञ्,य्,श्)

प्रश्न (३६.) – केषां वर्णानाम् उत्पत्तिस्थानं मूर्धा ?
उत्तर– ऋटुरषाणाम् ।

प्रश्न (३७.) – लृतुलसा: कुत्र निष्पद्यन्ते ?
उत्तर– दन्तेषु ।

प्रश्न (३८.) – उपूपधमानीयानाम् उत्पत्तिस्थानं किम् ?
उत्तर– ओष्ठौ।

प्रश्न (३९.) – ञमङणनानां क: अधिक: गुण: ?
उत्तर– नासिका ।

प्रश्न (४०.) – वकारस्य निस्पत्तिस्थानं किम् ?
उत्तर– दन्तोष्ठम् ।

प्रश्न (४१.) – अनुस्वार: क्व निष्पद्यते ?
उत्तर– नासिकायाम् ।

प्रश्न (४२.) – प्रयत्न: कतिविध: ?
उत्तर– द्विविध: ।

प्रश्न (४३.) – – तौ प्रयत्नौ कौ ?
उत्तर– आभ्यन्तर:, बाह्य: ।

प्रश्न (४४.) – आभ्यन्तर: कतिविध: ?
उत्तर– पञ्चविधः ।

प्रश्न (४५.) – ते आभ्यन्तरा: के ?
उत्तर– स्पृष्टम् , ईषत्-स्पृष्टम् , विवृतम् , ईषत्-विवृतम् , संवृतम् च ।

प्रश्न (४६.) – स्पृष्टप्रयत्न: केषां वर्णानाम् ?
उत्तर– स्पर्शानाम्।

प्रश्न (४७.) – ईषत्स्पृष्टं केषां वर्णानाम् ?
उत्तर– अन्त:स्थानाम्।

प्रश्न (४८.) – केषां वर्णानां विवृतप्रयत्न: ?
उत्तर– ऊष्माणां स्वराणाञ्च ।

प्रश्न (४९.) – कस्य संवृतम् ?
उत्तर– ह्रस्वस्य अकारस्य प्रयोगे संवृतम्।

प्रश्न (५०.) – विवृतस्य अकारस्य संवृतत्वं केन सूत्रेण विधीयते ?
उत्तर– अ अ (८.४.६७)

प्रश्न (५१.) – पूर्वत्रासिद्धं (८.२.१) कीदृशं सूत्रम् ?
उत्तर– अधिकारसूत्रम् ।

प्रश्न (५२.) – यमो नाम क: ?
उत्तर– वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे पूर्व सदृश: कश्चिद् वर्ण: ” यम:” भवति।

प्रश्न (५३.) – स्पर्शवर्णा: के ?
उत्तर– ककारादारभ्य मकारपर्यन्तम्। (कादयो मावसानाः ।

प्रश्न (५४.) – अन्त:स्था: के ?
उत्तर– य्, र्, ल्, व् ।

प्रश्न (५५.) – ऊष्माण: के ?
उत्तर– श्, ष्, स्, ह् ।

प्रश्न (५६.) – स्वरा: के ?
उत्तर– अच: ।

प्रश्न (५७.) – को नाम जिह्वामूलीय: ?
उत्तर– ॅ क ॅ ख इति कखाभ्यां प्राग् अर्धविसर्गसदृश: ।

प्रश्न (५८.) – उपध्मानीयो नाम क: ?
उत्तर– ॅ प ॅ फ इति पफाभ्यां प्राग् अर्धविसर्गसदृश: ।

प्रश्न (५९.) – सवर्णग्राहकं सूत्रं किम् ?
उत्तर–अणुदित्सवर्णस्य चाप्रत्यय:(१.१.६८)

प्रश्न (६०.) – बाह्यप्रयत्ना: कति ?
उत्तर– एकादश ।

प्रश्न (६१.) – ते च के ?
उत्तर– विवार:, संवार:, श्वास:, नाद: घोष:, अघोष:, अल्पप्राण:, महाप्राण:, उदात्त: अनुदात्त:, स्वरित: ।

प्रश्न (६२.) – तपर: इत्यत्र कथं विग्रह: ? क: समास: ?
उत्तर– त: परो यस्मात् सो तपर इति बहुव्रीहि:, तात् पर: तपर: इति तत्पुरुषो वा ।

प्रश्न (६३.) – वृद्धिरादैच् इति कीदृशं सूत्रम् ?
उत्तर– संज्ञासूत्रम् ।

प्रश्न (६४.) – गुणसंज्ञासूत्रं किम् ?
उत्तर– अदेङ् गुण: । (१.१.२)

प्रश्न (६५.) – धातुसंज्ञासूत्रं किम् ?
उत्तर– भूवादयो धातव: ।(१.३.१)

प्रश्न (६६.) – प्रादय: कति ?
उत्तर– द्वाविंशति: (२२)

प्रश्न (६७.) – के च ते ?
उत्तर– प्र ,परा ,अप ,सम्,अनु, अव, निस् , निर्, दुस् , दुर् ,वि , आङ् , नि , अधि, अपि ,अति , सु , उत् , अभि , प्रति ,परि , उप ।

प्रश्न (६८.) – उपसर्गसंज्ञासूत्रं किम् ?
उत्तर– प्रादयः उपसर्गा: क्रियायोगे (१.४.५८)

प्रश्न (६९.) – लिङ्गानुशासनम् इत्यस्य कर्त्ता कः ?
उत्तर– व्याडिः ।

प्रश्न (७०.) – वाक्यपदीयम् कस्य रचना ?
उत्तर– भर्तृहरेः ।

प्रश्न (७१.) – पतञ्जलि-प्रणीतः ग्रन्थः कः ?
उत्तर– महाभाष्यम् ।

प्रश्न (७२.) – व्याकरण-शब्दस्य व्युत्पत्तिः का ?
उत्तर– व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेनेति व्याकरणम् ।

प्रश्न (७३.) – व्याकरणस्य सम्प्रदायः कति के च ?
उत्तर– अष्टौ–ऐन्दम्, चान्द्रम्, काशकृत्स्नम्, कौमारम्, शाकटायनम्, सारस्वतम्, आपिशलम्, शाकलम् ।

प्रश्न (७४.) – प्रसिद्धं व्याकरणम् किम् ?
उत्तर– पाणिनीयम् ।

प्रश्न (७५.) – मुनित्रये केषां समावेशो भवति ?
उत्तर– पाणिनिः, कात्यायनः, पतञ्जलिः ।

प्रश्न (७६.) – वार्तिकारः कः ?
उत्तर– कात्यायनः ।

प्रश्न (७७.) – भट्टोजिदीक्षित-कृत-प्रौढमनोरमायाः खण्डनं केन कृतम् ?
उत्तर– जगन्नाथेन ।

प्रश्न (७८.) – मनोरमाकूचमर्दनम् इत्यस्य लेखकः कः ?
उत्तर– पंडितराजो जगन्नाथः ।

प्रश्न (७९.) – वरदराजस्य रचनाकार्याणि कानि ?
उत्तर– लघुसिद्धान्तकौमुदी, मध्यसिद्धान्कौमुदी, सारकौमुदी च ।

प्रश्न (८०.) – पाणिनीये अष्टाध्यायी-ग्रन्थे कति सूत्राणि ?
उत्तर– ३९६४

प्रश्न (८१.) – धातवः कतिषु गणेषु विभक्ताः सन्ति ?
उत्तर– दशषु गणेषु ।

प्रश्न (८२.) – धातु-गणानां नामानि कानि ?
उत्तर– भ्वादिः, अदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, क्र्यादिः, चुरादिः ।

प्रश्न (८३.) – शब्देन्दुशेखरः इत्यस्य लेखकः कः ?
उत्तर– नागेशभट्टः ।

प्रश्न (८४.) – कति धातवः सन्ति ?
उत्तर– १९७०

प्रश्न (८५.) – प्रत्याहारसूत्रेषु मूल-स्वराः के ?
उत्तर– पञ्च–अ, इ, उ, ऋ, लृ ।

प्रश्न (८६.) – वाक्यपदीयस्य कति काण्डानि सन्ति ?
उत्तर– त्रीणि–ब्राह्मकाण्डम्, वाक्यकाण्डम्, पदकाण्डम् ।

प्रश्न (८७.) – महाभाष्यस्य कैयटरचिता व्याख्या का ?
उत्तर– प्रदीपः ।

प्रश्न (८८.) – अष्टाध्याय्याः प्रथमा वृत्तिः का ?
उत्तर– काशिका ।

प्रश्न (८९.) – काशिकायाः लेखकौ कौ ?
उत्तर– जयादित्यः वामनश्च ।

प्रश्न (९०.) – काशिकायाः व्याख्या–काशिका-विवरण-पञ्जिका इत्यस्य लेखकः कः ?
उत्तर– जिनेन्द्रबुद्धिः ।

प्रश्न (९१.) – काशिका-विवरण-पञ्जिका इत्यस्य अपरं नाम किम् ?
उत्तर– न्यासः ।

प्रश्न (९२.) – – काशिकायाः अपरा व्याख्या का ?
उत्तर– पदमञ्जरी ।

प्रश्न (९३.) –पदमञ्जरी इत्यस्य रचनाकारः कः ?–हरदत्तमिश्रः ।

प्रश्न (९४.) – वैयाकरणभूषणसारः इत्यस्य प्रणेता कः ?
उत्तर– कौण्डभट्टः ।

प्रश्न (९५.) – परिभाषेन्दुशेखरः इत्यस्य लेखकः कः ?
उत्तर– नागेशभट्टः ।

प्रश्न (९६.) – परिभाषेन्दुशेखरस्य विषय़ः कः ?
उत्तर– पाणिनीयव्याकरणस्य परिभाषायाः विवेचनम् ।

प्रश्न (९७.) – महाभाष्यप्रदीपस्य सुप्रसिद्धा व्याख्या का ?
उत्तर– उद्योतः ।

प्रश्न (९८.) – उद्योतस्य लेखकः कः ?
उत्तर– नागेशः ।

प्रश्न (९९.) – नागेशस्यान्या रचना का ?
उत्तर– वैयाकरणसिद्धान्तमञ्जूषा, लघुमञ्जूषा, परमलघुमञ्जूषा ।

प्रश्न (१००.) – शब्दकौस्तुभः इत्यस्य लेखकः कः ?
उत्तर– भट्टोजिदीक्षित

**Blogger

https://draft.blogger.com/blogger.g?blogID=6033984807275094374#publishedposts

*FACEBOOK PAGE==https://www.facebook.com/iamwitheducation/*

*YOUTUBE CHANNEL=https://www.youtube.com/channel/UC53C1MI0ycNGWGuYDeJ31iQ*

*aaj ka video https://youtu.be/xbsaq3eaxuo*

*UNIQUE SOMVANSHI*

*CONTACT🗣📲📞 8851969941

Comments

Popular posts from this blog

विदेशी शब्द सूची : जानें कौन किस भाषा का शब्द है?

विदेशी शब्द सूची : जानें कौन किस भाषा का शब्द है? अंग्रेज (Angrej) किस भाषा का शब्द है? – डच भाषा अखबार (Akhbar) किस भाषा का शब्द है? – अरबी भाषा अचार (Achar) किस भाषा का शब्द है? – पुर्तगाली भाषा अदालत (Adalat) किस भाषा का शब्द है? – अरबी भाषा अमरूद (Amrood) किस भाषा का शब्द है? – फारसी भाषा अर्थशास्त्र (Arthashastra) किस भाषा का शब्द है? – ग्रीक भाषा अलमारी (Almari) किस भाषा का शब्द है? – पुर्तगाली भाषा अल्लाह (Allah) किस भाषा का शब्द है? – अरबी भाषा अस्पताल (Aspatal) किस भाषा का शब्द है? – अंग्रेजी भाषा आईना (Aaina) किस भाषा का शब्द है? – फारसी शब्द आमदनी (Aamdani) किस भाषा का शब्द है? – हिन्दी भाषा आलपिन (Allpin) किस भाषा का शब्द है? – पुर्तगाली भाषा आलू (Aloo) किस भाषा का शब्द है? – पुर्तगाली भाषा इंडिया (India) किस भाषा का शब्द है? – ग्रीक भाषा उर्दू (Urdu) किस भाषा का शब्द है? – तुर्की भाषा एग्रीकल्चर (Agriculture) किस भाषा का शब्द है? – लैटिन भाषा ऐनक (Ainak) किस भाषा का शब्द है? – अरबी भाषा औलाद (Aulad) किस भाषा का शब्द है? – अरबी भाषा खत (Khat) किस भाषा का

Toll Free numbers in India

Here are Toll Free numbers in India .....very very useful...!!!! ☀Airlines Indian Airlines - 1800 180 1407 Jet Airways - 1800 225 522 Spice Jet - 1800 180 3333 Air India - 1800 227 722 Kingfisher -1800 180 0101 ☀Banks ABN AMRO - 1800 112 224 Canara Bank - 1800 446 000 Citibank - 1800 442 265 Corporation Bank - 1800 443 555 Development Credit Bank - 1800 225 769 HDFC Bank - 1800 227 227 ICICI Bank - 1800 333 499 ICICI Bank NRI -1800 224 848 IDBI Bank -1800 116 999 Indian Bank -1800 425 1400 ING Vysya -1800 449 900 Kotak Mahindra Bank - 1800 226 022 Lord Krishna Bank -1800 112 300 Punjab National Bank - 1800 122 222 State Bank of India - 1800 441 955 Syndicate Bank - 1800 446 655 ☀Automobiles Mahindra Scorpio -1800 226 006 Maruti -1800 111 515 Tata Motors - 1800 255 52 Windshield Experts - 1800 113 636 ☀Computers / IT Adrenalin - 1800 444 445 AMD -1800 425 6664 Apple Computers-1800 444 683 Canon -1800 333 366 Cisco Systems- 1800 221 777 Compaq - HP